|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.219. अध्यायः 219
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति शिष्याय गुरूक्तवार्ष्णेयाध्यात्मानुवादसमापनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
गुरुरुवाच। 12-219-0x(6095)(73858)
न स वेद परं ब्रह्म यो न वेद चतुष्टयम्।
व्यक्ताव्यक्तं च यत्तत्त्वं संप्रोक्तं परमर्षिणा॥ 12-219-1(73859)
व्यक्तं मृत्युमुखं विद्यादव्यक्तममृतं पदम्।
निवृत्तिलक्षणं धर्ममृषिर्नारायणोऽब्रवीत्॥ 12-219-2(73860)
तत्रैवावस्थितं सर्वं त्रैलोक्यं सचराचरम्।
निवृत्तिलक्षणं धर्ममव्यक्तं ब्रह्म शाश्वतम्॥ 12-219-3(73861)
प्रवृत्तिलक्षणं धर्मं प्रजापतिरतथाब्रवीत्।
प्रवृत्तिः पुनरावृत्तिर्निवृत्तिः परमा गतिः॥ 12-219-4(73862)
तां गतिं परमामेति निवृत्तिपरमो मुनिः।
ज्ञानतत्त्वपरो नित्यं शुभाशुभनिदर्शकः॥ 12-219-5(73863)
तदेवमेतौ विज्ञेयावव्यक्तपुरुषाबुभौ।
अव्यक्तपुरुषाभ्यां तु यत्स्यादन्यन्महत्तरम्॥ 12-219-6(73864)
तं विशेषमवेक्षेति विशेषेण विचक्षणः।
अनाद्यन्तावुभावेतावलिङ्गौ चाप्युभावपि॥ 12-219-7(73865)
उभौ नित्यावनुचरौ महद्भ्यश्च महत्तरौ।
सामान्यमेतदुभयोरेवं ह्यन्यद्विशेषणम्॥ 12-219-8(73866)
प्रकृत्या सर्गधर्मिण्या तथा त्रिगुणसत्वया।
विपरीतमतो विद्यात्क्षेत्रज्ञस्य स्वलक्षणम्॥ 12-219-9(73867)
प्रकृतेश्च विकाराणां द्रष्टारमगुणान्वितम्।
`क्षेत्रज्ञमाहुर्जीवं तु कर्तारं गुणसंवृतम्॥ 12-219-10(73868)
अग्राह्यं येन जानन्ति तज्ज्ञानं दंशितश्च तत्।
तेनैव दंशितो नित्यं न गुणः परिभूयते॥ 12-219-11(73869)
अग्राह्यौ पुरुषावेतावलिङ्गत्वादसङ्गिनौ।
संयोगलक्षणोत्पत्तिः कर्मजा गृह्यते यथा॥ 12-219-12(73870)
करणैः कर्मनिर्वृत्तैः कर्ता यद्यद्विचेष्टते।
कीर्त्यते शब्दसंज्ञाभिः कोऽहमेषोप्यसाविति॥ 12-219-13(73871)
`ममापि कायमिति च तदज्ञो नित्यसंवृतः।'
उष्णीषवान्यथा वस्त्रैस्त्रिभिर्भवति संवृतः।
संवृतोऽयं तथा देही सत्त्वराजसतामसैः॥ 12-219-14(73872)
`भेदवस्तु त्वभेदेन जानाति स यदा पुमान्।
तदा परं परात्माऽसौ भवत्येव निरञ्जनः॥ 12-219-15(73873)
क्रियायोगे च भेदाख्ये बहु संक्षिप्यते क्वचित्।
वसुरुद्रगणाद्येषु स्वानुभोगेन भोगतः॥ 12-219-16(73874)
एवमेष परः सत्त्वो नानारूपेण संस्थितः।
संक्षिप्तो दृश्यते पश्चादेकरूपेण विष्ठितः॥' 12-219-17(73875)
तस्माच्चतुष्टयं वेद्यमेतैर्हेतुभिरावृतम्।
तथासंज्ञो ह्ययं सम्यगन्तकाले न मुह्यति।
`वायुर्विधो यथा भानुर्विप्रकाशं गमिष्यति॥' 12-219-18(73876)
श्रियं दिव्यामभिप्रेप्सुर्वर्ष्मवान्मनसा शुचिः।
शारीरैर्नियमैरुग्रैश्चरेन्निष्कल्मषं तपः॥ 12-219-19(73877)
त्रैलोक्यं तपसा व्याप्तमन्तर्भूतेन भास्वता।
सूर्यश्च चन्द्रमाश्चैव भासतस्तपसा दिवि॥ 12-219-20(73878)
`अन्यच्च धर्मसाम्यं यत्तपस्तत्कीर्त्यते पुनः।'
प्रकाशस्तपसो ज्ञानं लोके संशब्दितं तपः॥ 12-219-21(73879)
रजस्तमोघ्नं यत्कर्म तपसस्तत्स्वलक्षणम्।
`त्रितयं ह्येतदाख्यातं यद्यस्माद्भासितुं पुनः॥ 12-219-22(73880)
स्वभासा भासयंश्चापि चन्द्रमा ह्यत्र वर्तते।
सूर्ययोगे तु यः सन्धिस्तपः सर्वं प्रदीप्यते॥' 12-219-23(73881)
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते।
वाङ्भनोनियमः सम्यङ्भानसं तप उच्यते॥ 12-219-24(73882)
विधिज्ञेभ्यो द्विजातिभ्यो ग्राह्यमन्नं विशिष्यते।
आहारनियमेनास्य पाप्मा शाम्यति राजसः॥ 12-219-25(73883)
वैमनस्यं च विषये यान्त्यस्य करणानि च।
तस्मात्तन्मात्रमादद्याद्यावदत्र प्रयोजनम्॥ 12-219-26(73884)
अन्तकाले बलोत्कर्षाच्छनैः कुर्यादनातुरः।
एवं युक्तेन मनसा ज्ञानं यदुपपद्यते॥ 12-219-27(73885)
रजोवर्ज्यो ह्ययं देही देहवाञ्छब्दवांश्चरेत्।
कार्यैरव्याहतमतिर्वैराग्यात्प्रकृतौ स्थितः॥ 12-219-28(73886)
आ देहादप्रमादाच्च देहान्ताद्विप्रमुच्यते।
हेतुयुक्तः सदा सार्गो भूतानां प्रलयस्तथा॥ 12-219-29(73887)
परप्रत्ययसर्गे तु नियमो नातिवर्तते।
एवं तत्प्रभवां प्रज्ञामासते ये विषर्यये॥ 12-219-30(73888)
धृत्या देहान्धारयन्तो बुद्धिसंक्षिप्तचेतसः।
स्थानेभ्यो ध्वंसमानाश्च सूक्ष्मत्वात्तदुपासते॥ 12-219-31(73889)
यथागमं च तत्सर्वं बुद्ध्या तन्नैव बुद्ध्यते।
देहान्तं कश्चिदन्वास्ते भावितात्मा निराश्रयः॥ 12-219-32(73890)
युक्तो धारणया कश्चित्सतः केचिदुपासते।
अभ्यस्यन्ति परं देवं विद्यासंशब्दिताक्षरम्॥ 12-219-33(73891)
अन्तकाले ह्युपासन्ते तपसा दग्धकिल्विषाः।
सर्व एते महात्मानो गच्छन्ति परमां गतिम्॥ 12-219-34(73892)
सूक्ष्मं विशेषणं तेषामवेक्षेच्छास्त्रचक्षुषा।
देहं तु परमं विद्याद्विमुक्तमपरिग्रहम्॥ 12-219-35(73893)
अन्तरिक्षादन्यतरं धारणासक्तमानसम्।
मर्त्यलोकाद्विमुच्यन्ते विद्यासंसक्तचेतसः॥ 12-219-36(73894)
ब्रह्मभूता विरजसस्ततो यान्ति परां गतिम्।
एवमेकायनं धर्ममाहुर्वेदविदो जनाः॥ 12-219-37(73895)
यथाज्ञानमुपासन्तः सर्वे यान्ति परां गतिम्।
कषायवर्जितं----तेषामुत्पद्यतेऽमलम्।
यान्ति तेऽपि----- कान्विशुध्यन्ति यथाबलं॥ 12-219-38(73896)
भगवन्तमजं दिव्य विष्णुमव्यक्तसंज्ञितम्।
भावेन यान्ति शुद्धा ये ज्ञानतृप्ता निराशिषः॥ 12-219-39(73897)
ज्ञात्वाऽऽत्मस्थं------- न निवर्तन्ति तेऽव्ययाः।
प्राप्य तत्परमं स्थानमोदन्तेऽक्षरमव्ययम्॥ 12-219-40(73898)
एतावदेतद्विज्ञानमेतदस्ति च नास्ति च।
तृष्णाबद्धं जगत्सर्वं चक्रवत्परिवर्तते॥ 12-219-41(73899)
विसतन्तुर्यथैवायमन्तस्थः सर्वतो बिसे।
तृष्णातन्तुरनाद्यन्तस्तथा देहगतः सदा॥ 12-219-42(73900)
सूच्या सूत्रं यथा वस्त्रे संसारयति वायकः।
तद्वत्संसारसूत्रं हि तृष्णासूच्या निबद्ध्यते॥ 12-219-43(73901)
`इतस्ततः समाहृत्य रूपं निर्वर्तयिष्यति।'
विकारं प्रकृतिं चैव पुरुषं च सनातनम्॥ 12-219-44(73902)
यो यथावद्विजानाति स वितृष्णो विमुच्यते।
याति नित्यं स सद्भावमात्मनो वै महद्भुवम्॥ 12-219-45(73903)
भीष्म उवाच। 12-219-46x(6096)
प्रकाशं भगवानेतदृषिर्नारायणोऽमृतम्।
भूतानामनुकम्पार्थं जगाद जगतो हितम्॥ ॥ 12-219-46(73904)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनविंशत्यधिकद्विशततमोऽध्यायः॥ 219॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-219-1 न स वेद परं धर्मं इति ध. पाठः॥ 12-219-22 तपसस्तच्च लक्षणमिति थ. पाठः। तत्वलक्षणमिति ध. पाठः॥ 12-219-25 ग्राह्यमन्नं तपस्थिभिरिति ट. थ. पाठः॥ 12-219-29 देहान्ते विप्रमुच्यत इति ट. थ. पाठः। सदोत्सर्ग इति ध. पाठः॥ 12-219-38 विमुच्यन्ते यथाबलमिति झ. पाठः। विशुध्यन्तो यथाबलमिति ट. थ. पाठः॥ 12-219-46 प्रकाशं स्पष्टम्। अमृतं मोक्षसाधनम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|